वांछित मन्त्र चुनें

तं शि॑शीता स्वध्व॒रं स॒त्यं सत्वा॑नमृ॒त्विय॑म् । उ॒तो नु चि॒द्य ओह॑त आ॒ण्डा शुष्ण॑स्य॒ भेद॒त्यजै॒: स्व॑र्वतीर॒पो नभ॑न्तामन्य॒के स॑मे ॥

अंग्रेज़ी लिप्यंतरण

taṁ śiśītā svadhvaraṁ satyaṁ satvānam ṛtviyam | uto nu cid ya ohata āṇḍā śuṣṇasya bhedaty ajaiḥ svarvatīr apo nabhantām anyake same ||

पद पाठ

तम् । शि॒शी॒त॒ । सु॒ऽअ॒ध्व॒रम् । स॒त्यम् । सत्वा॑नम् । ऋ॒त्विय॑म् । उ॒तो इति॑ । नु । चि॒त् । यः । ओह॑ते । आ॒ण्डा । शुष्ण॑स्य । भेद॑ति । अजैः॑ । स्वः॑ऽवतीः । अ॒पः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.४०.११

ऋग्वेद » मण्डल:8» सूक्त:40» मन्त्र:11 | अष्टक:6» अध्याय:3» वर्ग:25» मन्त्र:5 | मण्डल:8» अनुवाक:5» मन्त्र:11